Sukta 3.31
शासद्वह्निर्दुहितुर्नप्त्यं गाद्विद्वाँ ऋतस्य दीधितिं सपर्यन् । पिता यत्र दुहितुः सेकमृञ्जन्त्सं शग्म्येन मनसा दधन्वे ॥
शास॒द्वह्नि॑र्दुहि॒तुर्न॒प्त्यं॑ गाद्वि॒द्वाँ ऋ॒तस्य॒ दीधि॑तिं सप॒र्यन् । पि॒ता यत्र॑ दुहि॒तुः सेक॑मृ॒ञ्जन्त्सं श॒ग्म्ये॑न॒ मन॑सा दध॒न्वे ॥
śā́sād váhniḥ duhitúr náptyaṃ gād vidvā́n ṛtásya dī́dhitiṃ saparyán | pitā́ yátra duhitúḥ sékam ṛñján sám śagmyéna mánasā dádhanve ||
The carrier-flame moved with command toward the daughter’s kinship, knowing the shining thought of Ṛta and serving it. Where the Father, colouring the daughter’s outpouring, they join together by a harmonious mind.
शास॑त् । वह्निः॑ । दु॒हि॒तुः । न॒प्त्य॑म् । गा॒त् । वि॒द्वान् । ऋ॒तस्य॑ । दीधि॑तिम् । स॒प॒र्यन् । पि॒ता । यत्र॑ । दु॒हि॒तुः । सेक॑म् । ऋ॒ञ्जन् । सम् । श॒ग्म्ये॑न । मन॑सा । द॒ध॒न्वे ॥शासत् । वह्निः । दुहितुः । नप्त्यम् । गात् । विद्वान् । ऋतस्य । दीधितिम् । सपर्यन् । पिता । यत्र । दुहितुः । सेकम् । ऋञ्जन् । सम् । शग्म्येन । मनसा । दधन्वे ॥śāsat | vahniḥ | duhituḥ | naptyam | gāt | vidvān | ṛtasya | dīdhitim | saparyan | pitā | yatra | duhituḥ | sekam | ṛñjan | sam | śagmyena | manasā | dadhanve