Sukta 3.31
पतिर्भव वृत्रहन्त्सूनृतानां गिरां विश्वायुर्वृषभो वयोधाः । आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन् ॥
पति॑र्भव वृत्रहन्त्सू॒नृता॑नां गि॒रां वि॒श्वायु॑र्वृष॒भो व॑यो॒धाः । आ नो॑ गहि स॒ख्येभि॑: शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभि॑: सर॒ण्यन् ॥
pátir bhava vṛtrahan sūnṛ́tānāṃ girā́ṃ viśvā́yur vṛ́ṣabho vayo-dhā́ḥ | ā́ no gahi sakhyébhiḥ śivébhir mahā́n mahī́bhir ūtíbhiḥ saraṇyán ||
Become the lord, O Vṛtra-slayer, of the true-inspired utterances, of the words that widen life; the bull who upholds our powers of growth. Come to us with friendships that are auspicious—with your vast and mighty helps, O lovable guide.
पतिः॑ । भ॒व॒ । वृ॒त्र॒ऽह॒न् । सू॒नृता॑नाम् । गि॒राम् । वि॒श्वऽआ॑युः । वृ॒ष॒भः । व॒यः॒ऽधाः । आ । नः॒ । ग॒हि॒ । स॒ख्येभिः॑ । शि॒वेभिः॑ । म॒हान् । म॒हीभिः॑ । ऊ॒तिऽभिः॑ । स॒र॒ण्यन् ॥पतिः । भव । वृत्रहन् । सूनृतानाम् । गिराम् । विश्वआयुः । वृषभः । वयःधाः । आ । नः । गहि । सख्येभिः । शिवेभिः । महान् । महीभिः । ऊतिभिः । सरण्यन् ॥patiḥ | bhava | vṛtra-han | sūnṛtānām | girām | viśva-āyuḥ | vṛṣabhaḥ | vayaḥ-dhāḥ | ā | naḥ | gahi | sakhyebhiḥ | śivebhiḥ | mahān | mahībhiḥ | ūti-bhiḥ | saraṇyan