Sukta 3.31
अनु कृष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे । परि यत्ते महिमानं वृजध्यै सखाय इन्द्र काम्या ऋजिप्याः ॥
अनु॑ कृ॒ष्णे वसु॑धिती जिहाते उ॒भे सूर्य॑स्य मं॒हना॒ यज॑त्रे । परि॒ यत्ते॑ महि॒मानं॑ वृ॒जध्यै॒ सखा॑य इन्द्र॒ काम्या॑ ऋजि॒प्याः ॥
ánu kṛṣṇé vasudhítī jihāte ubhé sū́ryasya maṃhánā yájatre | pári yát te mahimā́naṃ vṛjádhyai sakhā́ya indra kā́myā ṛjipyā́ḥ ||
Following after, the two dark-holding foundations loosen and part—both are worthy of worship, by the generous power of the Sun. And to make room all around for your vast greatness, O Indra, your straight-moving comrades, seekers of the desirable, press on and clear the way.
अनु॑ । कृ॒ष्णे इति॑ । वसु॑धिती॒ इति॒ वसु॑ऽधिती । जि॒हा॒ते॒ इति॑ । उ॒भे इति॑ । सूर्य॑स्य । मं॒हना॑ । यज॑त्रे । परि॑ । यत् । ते॒ । म॒हि॒मान॑म् । वृ॒जध्यै॑ । सखा॑यः । इ॒न्द्र॒ । काम्याः॑ । ऋ॒जि॒प्याः ॥अनु । कृष्णे इति । वसुधिती इति वसुधिती । जिहाते इति । उभे इति । सूर्यस्य । मंहना । यजत्रे । परि । यत् । ते । महिमानम् । वृजध्यै । सखायः । इन्द्र । काम्याः । ऋजिप्याः ॥anu | kṛṣṇe iti | vasudhitī itivasu-dhitī | jihāteiti | ubhe iti | sūryasya | maṃhanā | yajatre | pari | yat | te | mahimānam | vṛjadhyai | sakhāyaḥ | indra | kāmyāḥ | ṛjipyāḥ