Sukta 3.31
अपश्चिदेष विभ्वो दमूनाः प्र सध्रीचीरसृजद्विश्वश्चन्द्राः । मध्वः पुनानाः कविभिः पवित्रैर्द्युभिर्हिन्वन्त्यक्तुभिर्धनुत्रीः ॥
अ॒पश्चि॑दे॒ष वि॒भ्वो॒३॒॑ दमू॑ना॒: प्र स॒ध्रीची॑रसृजद्वि॒श्वश्च॑न्द्राः । मध्व॑: पुना॒नाः क॒विभि॑: प॒वित्रै॒र्द्युभि॑र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः ॥
apáś cid eṣá vibhvò damūnā́ḥ prá sadhrī́cīr asṛjad viśvá-candrāḥ | mádhvaḥ punānā́ḥ kavíbhiḥ pavítrair dyúbhir hinvanty aktúbhir dhánutrīḥ ||
Even the waters this all-pervading lord of the house sent forth in a straight, united flow, making them universally shining. Purifying the sweetness, driven by the seers with their strainers, they urge on the streams by days and nights, bearing their protection.
अ॒पः । चि॒त् । ए॒षः । वि॒ऽभ्वः॑ । दमू॑नाः । प्र । स॒ध्रीचीः॑ । अ॒सृ॒ज॒त् । वि॒श्वऽच॑न्द्राः । मध्वः॑ । पु॒ना॒नाः । क॒विऽभिः॑ । प॒वित्रैः॑ । द्युऽभिः॑ । हि॒न्व॒न्ति॒ । अ॒क्तुऽभिः॑ । धनु॑त्रीः ॥अपः । चित् । एषः । विभ्वः । दमूनाः । प्र । सध्रीचीः । असृजत् । विश्वचन्द्राः । मध्वः । पुनानाः । कविभिः । पवित्रैः । द्युभिः । हिन्वन्ति । अक्तुभिः । धनुत्रीः ॥apaḥ | cit | eṣaḥ | vi-bhvaḥ | damūnāḥ | pra | sadhrīcīḥ | asṛjat | viśva-candrāḥ | madhvaḥ | punānāḥ | kavi-bhiḥ | pavitraiḥ | dyu-bhiḥ | hinvanti | aktu-bhiḥ | dhanutrīḥ