Sukta 3.31
मही यदि धिषणा शिश्नथे धात्सद्योवृधं विभ्वं रोदस्योः । गिरो यस्मिन्ननवद्याः समीचीर्विश्वा इन्द्राय तविषीरनुत्ताः ॥
म॒ही यदि॑ धि॒षणा॑ शि॒श्नथे॒ धात्स॑द्यो॒वृधं॑ वि॒भ्वं१॒॑ रोद॑स्योः । गिरो॒ यस्मि॑न्ननव॒द्याः स॑मी॒चीर्विश्वा॒ इन्द्रा॑य॒ तवि॑षी॒रनु॑त्ताः ॥
mahī́ yádi dhiṣáṇā śiśnáthe dhā́t sadyó-vṛ́dhaṃ vibhváṃ rodasyoḥ | gíro yásmin anavadyā́ḥ samīcī́r víśvā índrāya táviṣīr anuttā́ḥ ||
When the vast dhīṣaṇā (inspired understanding) is kindled and sets (its work), it at once enlarges the all-pervading power between the two worlds. In him are the faultless, harmonious words—every irresistible force offered to Indra, unsurpassed.
म॒ही । यदि॑ । धि॒षणा॑ । शि॒श्नथे॑ । धात् । स॒द्यः॒ऽवृध॑म् । वि॒ऽभ्व॑म् । रोद॑स्योः । गिरः॑ । यस्मि॑न् । अ॒न॒व॒द्याः । स॒म्ऽई॒चीः । विश्वाः॑ । इन्द्रा॑य । तवि॑षीः । अनु॑त्ताः ॥मही । यदि । धिषणा । शिश्नथे । धात् । सद्यःवृधम् । विभ्वम् । रोदस्योः । गिरः । यस्मिन् । अनवद्याः । सम्ईचीः । विश्वाः । इन्द्राय । तविषीः । अनुत्ताः ॥mahī | yadi | dhiṣaṇā | śiśnathe | dhāt | sadyaḥ-vṛdham | vi-bhvam | rodasyoḥ | giraḥ | yasmin | anavadyāḥ | sam-īcīḥ | viśvāḥ | indrāya | taviṣīḥ | anuttāḥ