Sukta 3.31
मह्या ते सख्यं वश्मि शक्तीरा वृत्रघ्ने नियुतो यन्ति पूर्वीः । महि स्तोत्रमव आगन्म सूरेरस्माकं सु मघवन्बोधि गोपाः ॥
मह्या ते॑ स॒ख्यं व॑श्मि श॒क्तीरा वृ॑त्र॒घ्ने नि॒युतो॑ यन्ति पू॒र्वीः । महि॑ स्तो॒त्रमव॒ आग॑न्म सू॒रेर॒स्माकं॒ सु म॑घवन्बोधि गो॒पाः ॥
mahyā́ te sakhyáṃ vaśmi śaktī́r ā́ vṛtraghne niyúto yanti pūrvī́ḥ | máhi stotrám ava ā́ganma sūrér asmā́kaṃ sú maghavan bodhi gopā́ḥ ||
For the great (work) I choose thy friendship; O slayer of Vṛtra, thy many yoked powers come from of old. We have come with a mighty hymn for the Sun-born (illumined) help: O bountiful one, awaken as our protector of the rays (cows).
महि॑ । आ । ते॒ । स॒ख्यम् । व॒श्मि॒ । श॒क्तीः । आ । वृ॒त्र॒ऽघ्ने । नि॒ऽयुतः॑ । य॒न्ति॒ । पू॒र्वीः । महि॑ । स्तो॒त्रम् । अवः॑ । आ । अ॒ग॒न्म॒ । सू॒रेः । अ॒स्माक॑म् । सु । म॒घ॒व॒न् । बो॒धि॒ । गो॒पाः ॥महि । आ । ते । सख्यम् । वश्मि । शक्तीः । आ । वृत्रघ्ने । नियुतः । यन्ति । पूर्वीः । महि । स्तोत्रम् । अवः । आ । अगन्म । सूरेः । अस्माकम् । सु । मघवन् । बोधि । गोपाः ॥mahi | ā | te | sakhyam | vaśmi | śaktīḥ | ā | vṛtra-ghne | ni-yutaḥ | yanti | pūrvīḥ | mahi | stotram | avaḥ | ā | aganma | sūreḥ | asmākam | su | maghavan | bodhi | gopāḥ