Sukta 3.31
पित्रे चिच्चक्रुः सदनं समस्मै महि त्विषीमत्सुकृतो वि हि ख्यन् । विष्कभ्नन्तः स्कम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन् ॥
पि॒त्रे चि॑च्चक्रु॒: सद॑नं॒ सम॑स्मै॒ महि॒ त्विषी॑मत्सु॒कृतो॒ वि हि ख्यन् । वि॒ष्क॒भ्नन्त॒: स्कम्भ॑नेना॒ जनि॑त्री॒ आसी॑ना ऊ॒र्ध्वं र॑भ॒सं वि मि॑न्वन् ॥
pitré cic cakrúḥ sádanaṃ sám asmai máhi tvíṣīmat sukṛ́to ví hí khyan | viṣkábhṇantaḥ skámbhanenā jánitrī āsī́nā ūrdhváṃ rabhásaṃ ví minvan ||
Even for the Father they made a seat, and for him they set it together; the doers of the good work disclosed the great and luminous (world). Propping it with the Support, they sat in the generative power and drove upward the impetuous force, widening it.
पि॒त्रे । चि॒त् । च॒क्रुः॒ । सद॑नम् । सम् । अ॒स्मै॒ । महि॑ । त्विषि॑ऽमत् । सु॒ऽकृतः॑ । वि । हि । ख्यन् । वि॒ऽस्क॒भ्नन्तः॑ । स्कम्भ॑नेन । जनि॑त्री॒ इति॑ । आसी॑नाः । ऊ॒र्ध्वम् । र॒भ॒सम् । वि । मि॒न्व॒न् ॥पित्रे । चित् । चक्रुः । सदनम् । सम् । अस्मै । महि । त्विषिमत् । सुकृतः । वि । हि । ख्यन् । विस्कभ्नन्तः । स्कम्भनेन । जनित्री इति । आसीनाः । ऊर्ध्वम् । रभसम् । वि । मिन्वन् ॥pitre | cit | cakruḥ | sadanam | sam | asmai | mahi | tviṣi-mat | su-kṛtaḥ | vi | hi | khyan | vi-skabhnantaḥ | skambhanena | janitrī iti | āsīnāḥ | ūrdhvam | rabhasam | vi | minvan