Sukta 3.31
स जातेभिर्वृत्रहा सेदु हव्यैरुदुस्रिया असृजदिन्द्रो अर्कैः । उरूच्यस्मै घृतवद्भरन्ती मधु स्वाद्म दुदुहे जेन्या गौः ॥
स जा॒तेभि॑र्वृत्र॒हा सेदु॑ ह॒व्यैरुदु॒स्रिया॑ असृज॒दिन्द्रो॑ अ॒र्कैः । उ॒रू॒च्य॑स्मै घृ॒तव॒द्भर॑न्ती॒ मधु॒ स्वाद्म॑ दुदुह॒अ जेन्या॒ गौः ॥
sá jā́tebhir vṛtrahā́ sedu havyaír úd usríyā asṛjad índro arkáiḥ | urū́cy asmai ghṛtávad bhárantī mádhu svā́dma duduhe jényā gáuḥ ||
He, the Vṛtra-slayer, took his seat with the offerings of the born powers; Indra by the luminous hymns sent forth the shining cows. For him the wide-shining one, bringing the ghee-rich abundance, the noble Cow milked honeyed sweetness of delight.
सः । जा॒तेभिः॑ । वृ॒त्र॒ऽहा । सः । इत् । ऊँ॒ इति॑ । ह॒व्यैः । उत् । उ॒स्रियाः॑ । अ॒सृ॒ज॒त् । इन्द्रः॑ । अ॒र्कैः । उ॒रू॒ची । अ॒स्मै॒ । घृ॒तऽव॑त् । भर॑न्ती । मधु॑ । स्वाद्म॑ । दु॒दु॒हे॒ । जेन्या॑ । गौः ॥सः । जातेभिः । वृत्रहा । सः । इत् । ऊँ इति । हव्यैः । उत् । उस्रियाः । असृजत् । इन्द्रः । अर्कैः । उरूची । अस्मै । घृतवत् । भरन्ती । मधु । स्वाद्म । दुदुहे । जेन्या । गौः ॥saḥ | jātebhiḥ | vṛtra-hā | saḥ | it | oṃ iti | havyaiḥ | ut | usriyāḥ | asṛjat | indraḥ | arkaiḥ | urūcī | asmai | ghṛta-vat | bharantī | madhu | svādma | duduhe | jenyā | gauḥ