Sukta 3.31
सम्पश्यमाना अमदन्नभि स्वं पयः प्रत्नस्य रेतसो दुघानाः । वि रोदसी अतपद्घोष एषां जाते निष्ठामदधुर्गोषु वीरान् ॥
स॒म्पश्य॑माना अमदन्न॒भि स्वं पय॑: प्र॒त्नस्य॒ रेत॑सो॒ दुघा॑नाः । वि रोद॑सी अतप॒द्घोष॑ एषां जा॒ते नि॒ष्ठामद॑धु॒र्गोषु॑ वी॒रान् ॥
sampáśyamānā amadan abhí sváṃ páyaḥ pratnásya rétaso dúghānāḥ | ví rodasī atapad ghóṣa eṣāṃ jā́te níṣṭhām adadhur góṣu vīrā́n ||
Seeing together, they grew intoxicated in their own delight, milking the milk of the ancient seed. Their cry blazed out through the two worlds; when it was born, they set the firm foundation—placing the heroic powers among the rays (cows) of light.
स॒म्ऽपश्य॑मानाः । अ॒म॒द॒न् । अ॒भि । स्वम् । पयः॑ । प्र॒त्नस्य॑ । रेत॑सः । दुघा॑नाः । वि । रोद॑सी॒ इति॑ । अ॒त॒प॒त् । घोषः॑ । ए॒षा॒म् । जा॒ते । निः॒ऽस्थाम् । अद॑धुः । गोषु॑ । वी॒रान् ॥सम्पश्यमानाः । अमदन् । अभि । स्वम् । पयः । प्रत्नस्य । रेतसः । दुघानाः । वि । रोदसी इति । अतपत् । घोषः । एषाम् । जाते । निःस्थाम् । अदधुः । गोषु । वीरान् ॥sam-paśyamānāḥ | amadan | abhi | svam | payaḥ | pratnasya | retasaḥ | dughānāḥ | vi | rodasī iti | atapat | ghoṣaḥ | eṣām | jāte | niḥ-sthām | adadhuḥ | goṣu | vīrān