Sukta 3.30
यस्मै धायुरदधा मर्त्यायाभक्तं चिद्भजते गेह्यं सः । भद्रा त इन्द्र सुमतिर्घृताची सहस्रदाना पुरुहूत रातिः ॥
यस्मै॒ धायु॒रद॑धा॒ मर्त्या॒याभ॑क्तं चिद्भजते गे॒ह्यं१॒॑ सः । भ॒द्रा त॑ इन्द्र सुम॒तिर्घृ॒ताची॑ स॒हस्र॑दाना पुरुहूत रा॒तिः ॥
yásmai dhāyúr ádadhaḥ mártyāyā́bhaktaṃ cid bhajate gehyàṃ sáḥ | bhadrā́ ta indra sumatír ghṛtā́cī sahásra-dānā puruhūta rātíḥ ||
To whom you grant the fostering power for the mortal, he shares even what was unshared and wins the wealth of the inner home. Auspicious is your goodwill, O Indra—flowing with the richness of the ghee; a thousand-giving is your bounty, O much-invoked.
यस्मै॑ । धायुः॑ । अद॑धाः । मर्त्या॑य । अभ॑क्तम् । चि॒त् । भ॒ज॒ते॒ । गे॒ह्य॑म् । सः । भ॒द्रा । ते॒ । इ॒न्द्र॒ । सु॒ऽम॒तिः । घृ॒ताची॑ । स॒हस्र॑ऽदाना । पु॒रु॒ऽहू॒त॒ । रा॒तिः ॥यस्मै । धायुः । अदधाः । मर्त्याय । अभक्तम् । चित् । भजते । गेह्यम् । सः । भद्रा । ते । इन्द्र । सुमतिः । घृताची । सहस्रदाना । पुरुहूत । रातिः ॥yasmai | dhāyuḥ | adadhāḥ | martyāya | abhaktam | cit | bhajate | gehyam | saḥ | bhadrā | te | indra | su-matiḥ | ghṛtācī | sahasra-dānā | puru-hūta | rātiḥ