Sukta 3.30
प्र सू त इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्नेतु शत्रून् । जहि प्रतीचो अनूचः पराचो विश्वं सत्यं कृणुहि विष्टमस्तु ॥
प्र सू त॑ इन्द्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्र॑: प्रमृ॒णन्ने॑तु॒ शत्रू॑न् । ज॒हि प्र॑ती॒चो अ॑नू॒चः परा॑चो॒ विश्वं॑ स॒त्यं कृ॑णुहि वि॒ष्टम॑स्तु ॥
prá sū́ ta indra pravátā hári-bhyāṃ prá te vájraḥ pramṛṇánn etu śátrūn | jáhi pratī́co anū́caḥ parā́co víśvaṃ satyáṃ kṛṇuhi viṣṭám astu ||
Go forth then, O Indra, with your two tawny powers in the forward course; let your thunderbolt go out, crushing the enemies. Strike those who oppose from the front, from behind, and from afar; make the whole being true—let the right settlement be established.
प्र । सु । ते॒ । इ॒न्द्र॒ । प्र॒ऽवता॑ । हरि॑ऽभ्याम् । प्र । ते॒ । वज्रः॑ । प्र॒ऽमृ॒णन् । ए॒तु॒ । शत्रू॑न् । ज॒हि । प्र॒ती॒चः । अ॒नू॒चः । परा॑चः । विश्व॑म् । स॒त्यम् । कृ॒णु॒हि॒ । वि॒ष्टम् । अ॒स्तु॒ ॥प्र । सु । ते । इन्द्र । प्रवता । हरिभ्याम् । प्र । ते । वज्रः । प्रमृणन् । एतु । शत्रून् । जहि । प्रतीचः । अनूचः । पराचः । विश्वम् । सत्यम् । कृणुहि । विष्टम् । अस्तु ॥pra | su | te | indra | pra-vatā | hari-bhyām | pra | te | vajraḥ | pra-mṛṇan | etu | śatrūn | jahi | pratīcaḥ | anūcaḥ | parācaḥ | viśvam | satyam | kṛṇuhi | viṣṭam | astu