Sukta 3.30
उताभये पुरुहूत श्रवोभिरेको दृळ्हमवदो वृत्रहा सन् । इमे चिदिन्द्र रोदसी अपारे यत्संगृभ्णा मघवन्काशिरित्ते ॥
उ॒ताभ॑ये पुरुहूत॒ श्रवो॑भि॒रेको॑ दृ॒ळ्हम॑वदो वृत्र॒हा सन् । इ॒मे चि॑दिन्द्र॒ रोद॑सी अपा॒रे यत्सं॑गृ॒भ्णा म॑घवन्का॒शिरित्ते॑ ॥
utā́bhaye puruhūta śrávobhir éko dṛḷhám avado vṛtrahā́ sán | imé cid índra ródasī apāré yát saṃgṛbhṇā́ maghavan kāśír ít te ||
And even in fear, O much-invoked, by your powers of fame you alone upheld the firm foundation, being the slayer of Vṛtra. Even these two boundless worlds, O Indra, are as if held together when you, O bounteous one, gather them into a single beam of light for your action.
उ॒त । अभ॑ये । पु॒रु॒ऽहू॒त॒ । श्रवः॑ऽभिः । एकः॑ । दृ॒ळ्हम् । अ॒व॒दः॒ । वृ॒त्र॒ऽहा । सन् । इ॒मे । चि॒त् । इ॒न्द्र॒ । रोद॑सी॒ इति॑ । अ॒पा॒रे इति॑ । यत् । स॒म्ऽगृ॒भ्णाः । म॒घ॒व॒न् । का॒शिः । इत् । ते॒ ॥उत । अभये । पुरुहूत । श्रवःभिः । एकः । दृळ्हम् । अवदः । वृत्रहा । सन् । इमे । चित् । इन्द्र । रोदसी इति । अपारे इति । यत् । सम्गृभ्णाः । मघवन् । काशिः । इत् । ते ॥uta | abhaye | puru-hūta | śravaḥ-bhiḥ | ekaḥ | dṛḷham | avadaḥ | vṛtra-hā | san | ime | cit | indra | rodasī iti | apāre iti | yat | sam-gṛbhṇāḥ | maghavan | kāśiḥ | it | te