Sukta 3.30
त्वं हि ष्मा च्यावयन्नच्युतान्येको वृत्रा चरसि जिघ्नमानः । तव द्यावापृथिवी पर्वतासोऽनु व्रताय निमितेव तस्थुः ॥
त्वं हि ष्मा॑ च्या॒वय॒न्नच्यु॑ता॒न्येको॑ वृ॒त्रा चर॑सि॒ जिघ्न॑मानः । तव॒ द्यावा॑पृथि॒वी पर्व॑ता॒सोऽनु॑ व्र॒ताय॒ निमि॑तेव तस्थुः ॥
tváṃ hí ṣmā cyāváyann ácyutāny éko vṛtrā́ cárasi jíghnamānaḥ | táva dyā́vā-pṛthivī́ párvatāso ’nú vratā́ya nímitā iva tasthuḥ ||
For you indeed, shaking the unshakable, move alone against the Vṛtra-forces, striking them down. For you, Heaven and Earth and the mountains stand, as if measured out, in obedience to the law of your truth-working.
त्वम् । हि । स्म॒ । च्या॒वय॑न् । अच्यु॑तानि । एकः॑ । वृ॒त्रा । चर॑सि । जिघ्न॑मानः । तव॑ । द्यावा॑पृथि॒वी इति॑ । पर्व॑ता॒सः । अनु॑ । व्र॒ताय॑ । निमि॑ताऽइव । त॒स्थुः॒ ॥त्वम् । हि । स्म । च्यावयन् । अच्युतानि । एकः । वृत्रा । चरसि । जिघ्नमानः । तव । द्यावापृथिवी इति । पर्वतासः । अनु । व्रताय । निमिताइव । तस्थुः ॥tvam | hi | sma | cyāvayan | acyutāni | ekaḥ | vṛtrā | carasi | jighnamānaḥ | tava | dyāvāpṛthivī iti | parvatāsaḥ | anu | vratāya | nimitāiva | tasthuḥ