Sukta 3.30
इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस्तुविकूर्मिॠघावान् । यदुग्रो धा बाधितो मर्त्येषु क्व त्या ते वृषभ वीर्याणि ॥
इन्द्र॑: सु॒शिप्रो॑ म॒घवा॒ तरु॑त्रो म॒हाव्रा॑तस्तुविकू॒र्मिॠघा॑वान् । यदु॒ग्रो धा बा॑धि॒तो मर्त्ये॑षु॒ क्व१॒॑ त्या ते॑ वृषभ वी॒र्या॑णि ॥
índraḥ suśípro maghávā tárutro mahā́vrātas tuvīkū́rmi r̥ghā́vān | yád ugró dhā́ bādhitó mártyeṣu kvá tyā́ te vṛṣabha vīryā́ṇi ||
Indra of the fair lip, the bountiful, the rescuer, of vast host and mighty surge, possessed of the straight-going force—when the fierce one seems pressed back among mortals, where then, O Bull, are those hero-powers of yours?
इन्द्रः॑ । सु॒ऽशिप्रः॑ । म॒घऽवा॑ । तरु॑त्रः । म॒हाऽव्रा॑तः । तु॒वि॒ऽकू॒र्मिः । ऋघा॑वान् । यत् । उ॒ग्रः । धाः । बा॒धि॒तः । मर्त्ये॑षु । क्व॑ । त्या । ते॒ । वृ॒ष॒भ॒ । वी॒र्या॑णि ॥इन्द्रः । सुशिप्रः । मघवा । तरुत्रः । महाव्रातः । तुविकूर्मिः । ऋघावान् । यत् । उग्रः । धाः । बाधितः । मर्त्येषु । क्व । त्या । ते । वृषभ । वीर्याणि ॥indraḥ | su-śipraḥ | magha-vā | tarutraḥ | mahāvrātaḥ | tuvi-kūrmiḥ | ṛghāvān | yat | ugraḥ | dhāḥ | bādhitaḥ | martyeṣu | kva | tyā | te | vṛṣabha | vīryāṇi