Sukta 3.30
न ते दूरे परमा चिद्रजांस्या तु प्र याहि हरिवो हरिभ्याम् । स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने अग्नौ ॥
न ते॑ दू॒रे प॑र॒मा चि॒द्रजां॒स्या तु प्र या॑हि हरिवो॒ हरि॑भ्याम् । स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा॑णः समिधा॒ने अ॒ग्नौ ॥
ná te dūrḗ paramā́ cid rájāṃsy ā́ tu prá yāhi harivo hári-bhyām | sthirā́ya vṛ́ṣṇe sávānā kṛtémā́ yuktā́ grā́vāṇaḥ samidhānḗ agnáu ||
Not even the highest worlds are far from you; come then, drive forward with your two tawny powers. For the steadfast Bull the Soma-pressings are made ready; the pressing-stones are yoked where Agni is being kindled into the flame.
न । ते॒ । दू॒रे । प॒र॒मा । चि॒त् । रजां॑सि । आ । तु । प्र । या॒हि॒ । ह॒रि॒ऽवः॒ । हरि॑ऽभ्याम् । स्थि॒राय॑ । वृष्णे॑ । सव॑ना । कृ॒ता । इ॒मा । यु॒क्ताः । ग्रावा॑णः । स॒म्ऽइ॒धा॒ने । अ॒ग्नौ ॥न । ते । दूरे । परमा । चित् । रजांसि । आ । तु । प्र । याहि । हरिवः । हरिभ्याम् । स्थिराय । वृष्णे । सवना । कृता । इमा । युक्ताः । ग्रावाणः । सम्इधाने । अग्नौ ॥na | te | dūre | paramā | cit | rajāṃsi | ā | tu | pra | yāhi | hari-vaḥ | hari-bhyām | sth irāya | vṛṣṇe | savanā | kṛtā | imā | yuktāḥ | grāvāṇaḥ | sam-idhāne | agnau