Sukta 3.30
उद्वृह रक्षः सहमूलमिन्द्र वृश्चा मध्यं प्रत्यग्रं शृणीहि । आ कीवतः सललूकं चकर्थ ब्रह्मद्विषे तपुषिं हेतिमस्य ॥
उद्वृ॑ह॒ रक्ष॑: स॒हमू॑लमिन्द्र वृ॒श्चा मध्यं॒ प्रत्यग्रं॑ शृणीहि । आ कीव॑तः सल॒लूकं॑ चकर्थ ब्रह्म॒द्विष्॒ तपु॑षिं हे॒तिम॑स्य ॥
úd vṛha rákṣaḥ sahá-mūlam indra vṛścā́ mádhyaṃ práty agraṃ śṛṇīhi | ā́ kī́vataḥ salalū́kaṃ cakartha brahmadvíṣa tápuṣiṃ hetím asyá ||
Tear out the Raksha with its very root, O Indra; cut away its middle, strike off its front. Thou hast made an end of the miserly and the crooked; against the hater of the sacred word thou hast forged a burning weapon—an edge of tapas for his undoing.
उत् । वृ॒ह॒ । रक्षः॑ । स॒हऽमू॑लम् । इ॒न्द्र॒ । वृ॒श्च । मध्य॑म् । प्रति॑ । अग्र॑म् । शृ॒णी॒हि॒ । आ । कीव॑तः । स॒ल॒लूक॑म् । च॒क॒र्थ॒ । ब्र॒ह्म॒ऽद्विषे॑ । तपु॑षिम् । हे॒तिम् । अ॒स्य॒ ॥उत् । वृह । रक्षः । सहमूलम् । इन्द्र । वृश्च । मध्यम् । प्रति । अग्रम् । शृणीहि । आ । कीवतः । सललूकम् । चकर्थ । ब्रह्मद्विषे । तपुषिम् । हेतिम् । अस्य ॥ut | vṛha | rakṣaḥ | saha-mūlam | indra | vṛśca | madhyam | prati | agram | śṛṇīhi | ā | kīvataḥ | salalūkam | cakartha | brahma-dviṣe | tapuṣim | hetim | asya