Sukta 3.30
सं घोषः शृण्वेऽवमैरमित्रैर्जही न्येष्वशनिं तपिष्ठाम् । वृश्चेमधस्ताद्वि रुजा सहस्व जहि रक्षो मघवन्रन्धयस्व ॥
सं घोष॑: शृण्वेऽव॒मैर॒मित्रै॑र्ज॒ही न्ये॑ष्व॒शनिं॒ तपि॑ष्ठाम् । वृ॒श्चेम॒धस्ता॒द्वि रु॑जा॒ सह॑स्व ज॒हि रक्षो॑ मघवन्र॒न्धय॑स्व ॥
sáṃ ghóṣaḥ śṛṇve avamáir amítrair jahī́ ny èṣv aśániṃ tápiṣṭhām | vṛścem adhástād ví rujā sáhasva jahí rákṣo maghavan randháyasva ||
The clamour is heard from the lower hostile powers; smite them—cast down among them thy most burning thunderbolt. Cut them off from below, shatter them apart, prevail by force; slay the Racksha, O bounteous one, and bring the obstructors to subjection.
सम् । घोषः॑ । शृ॒ण्वे॒ । अ॒व॒मैः । अ॒मित्रैः॑ । ज॒हि । नि । ए॒षु॒ । अ॒शनि॑म् । तपि॑ष्ठाम् । वृ॒श्च । ई॒म् । अ॒धस्ता॑त् । वि । रु॒ज॒ । सह॑स्व । ज॒हि । रक्षः॑ । म॒घ॒ऽव॒न् । र॒न्धय॑स्व ॥सम् । घोषः । शृण्वे । अवमैः । अमित्रैः । जहि । नि । एषु । अशनिम् । तपिष्ठाम् । वृश्च । ईम् । अधस्तात् । वि । रुज । सहस्व । जहि । रक्षः । मघवन् । रन्धयस्व ॥sam | ghoṣaḥ | śṛṇve | avamaiḥ | amitraiḥ | jahi | ni | eṣu | aśanim | tapiṣṭhām | vṛśca | īm | adhastāt | vi | ruja | sahasva | jahi | rakṣaḥ | magha-van | randhayasva