Sukta 3.30
इन्द्र दृह्य यामकोशा अभूवन्यज्ञाय शिक्ष गृणते सखिभ्यः । दुर्मायवो दुरेवा मर्त्यासो निषङ्गिणो रिपवो हन्त्वासः ॥
इन्द्र॒ दृह्य॑ यामको॒शा अ॑भूवन्य॒ज्ञाय॑ शिक्ष गृण॒ते सखि॑भ्यः । दु॒र्मा॒यवो॑ दु॒रेवा॒ मर्त्या॑सो निष॒ङ्गिणो॑ रि॒पवो॒ हन्त्वा॑सः ॥
índra dṛ́hya yā́ma-kośā abhūvan yajñā́ya śíkṣa gṛṇaté sákhibhyaḥ | durmā́yavo durévā mártyāso niṣaṅgíṇo ripávo hántvāsāḥ ||
O Indra, be firm; the coverings of the journey have arisen. Teach for the sacrifice, for the singer and for the comrades. For there are mortals of evil craft and evil way—armed adversaries, enemies bent on striking: break their assault and make the path secure.
इन्द्र॑ । दृह्य॑ । या॒म॒ऽको॒शाः । अ॒भू॒व॒न् । य॒ज्ञाय॑ । शि॒क्ष॒ । गृ॒ण॒ते । सखि॑ऽभ्यः । दुः॒ऽमा॒यवः॑ । दुः॒ऽएवाः॑ । मर्त्या॑सः । नि॒ष॒ङ्गिणः॑ । रि॒पवः॑ । हन्त्वा॑सः ॥इन्द्र । दृह्य । यामकोशाः । अभूवन् । यज्ञाय । शिक्ष । गृणते । सखिभ्यः । दुःमायवः । दुःएवाः । मर्त्यासः । निषङ्गिणः । रिपवः । हन्त्वासः ॥indra | dṛhya | yāma-kośāḥ | abhūvan | yajñāya | śikṣa | gṛṇate | sakhi-bhyaḥ | duḥ-māyavaḥ | duḥ-evāḥ | martyāsaḥ | niṣaṅgiṇaḥ | ripavaḥ | hantvāsaḥ