Sukta 3.30
महि ज्योतिर्निहितं वक्षणास्वामा पक्वं चरति बिभ्रती गौः । विश्वं स्वाद्म सम्भृतमुस्रियायां यत्सीमिन्द्रो अदधाद्भोजनाय ॥
महि॒ ज्योति॒र्निहि॑तं व॒क्षणा॑स्वा॒मा प॒क्वं च॑रति॒ बिभ्र॑ती॒ गौः । विश्वं॒ स्वाद्म॒ सम्भृ॑तमु॒स्रिया॑यां॒ यत्सी॒मिन्द्रो॒ अद॑धा॒द्भोज॑नाय ॥
máhi jyótir níhitaṃ vakṣáṇāsv āmā́ pakváṃ carati bíbhratī gáuḥ | víśvaṃ svā́dma sámbhṛtam usríyāyāṃ yát sīm índro ádadhād bhójanāya ||
A great Light is lodged within the breasts; the Cow that bears it moves, carrying the raw and the ripened. In the shining womb of the Dawn all sweetness is gathered; for Indra has set it there for our nourishment—food of delight and luminous increase.
महि॑ । ज्योतिः॑ । निऽहि॑तम् । व॒क्षणा॑सु । आ॒मा । प॒क्वम् । च॒र॒ति॒ । बिभ्र॑ती । गौः । विश्व॑म् । स्वाद्म॑ । सम्ऽभृ॑तम् उ॒स्रिया॑याम् । यत् । सी॒म् । इन्द्रः॑ । अद॑धात् । भोज॑नाय ॥महि । ज्योतिः । निहितम् । वक्षणासु । आमा । पक्वम् । चरति । बिभ्रती । गौः । विश्वम् । स्वाद्म । सम्भृतम् उस्रियायाम् । यत् । सीम् । इन्द्रः । अदधात् । भोजनाय ॥mahi | jyotiḥ | ni-hitam | vakṣaṇāsu | āmā | pakvam | carati | bibhratī | gauḥ | viśvam | svādma | sam-bhṛtam usriyāyām | yat | sīm | indraḥ | adadhāt | bhojanāya