Sukta 3.30
दिदृक्षन्त उषसो यामन्नक्तोर्विवस्वत्या महि चित्रमनीकम् । विश्वे जानन्ति महिना यदागादिन्द्रस्य कर्म सुकृता पुरूणि ॥
दिदृ॑क्षन्त उ॒षसो॒ याम॑न्न॒क्तोर्वि॒वस्व॑त्या॒ महि॑ चि॒त्रमनी॑कम् । विश्वे॑ जानन्ति महि॒ना यदागा॒दिन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ ॥
didṛ́kṣanta uṣáso yā́mann aktór vivásvatyā máhi citrám anī́kam | víśve jānanti mahinā́ yad ā́gād índrasya kárma sukṛ́tā purū́ṇi ||
Seeking to behold, the Dawns in the journey of Night look upon the vast and marvellous face of the radiant One. All know, by his greatness, when he has come: the many well-shaped works of Indra—his victorious formations in the soul.
दिदृ॑क्षन्ते । उ॒षसः॑ । याम॑न् । अ॒क्तोः । वि॒वस्व॑त्याः । महि॑ । चि॒त्रम् । अनी॑कम् । विश्वे॑ । जा॒न॒न्ति॒ । म॒हि॒ना । यत् । आ । अगा॑त् । इन्द्र॑स्य । कर्म॑ । सुऽकृ॑ता । पु॒रूणि॑ ॥दिदृक्षन्ते । उषसः । यामन् । अक्तोः । विवस्वत्याः । महि । चित्रम् । अनीकम् । विश्वे । जानन्ति । महिना । यत् । आ । अगात् । इन्द्रस्य । कर्म । सुकृता । पुरूणि ॥didṛkṣante | uṣasaḥ | yāman | aktoḥ | vivasvatyāḥ | mahi | citram | anīkam | viśve | jānanti | mahinā | yat | ā | agāt | indrasya | karma | su-kṛtā | purūṇi