Sukta 3.30
दिशः सूर्यो न मिनाति प्रदिष्टा दिवेदिवे हर्यश्वप्रसूताः । सं यदानळध्वन आदिदश्वैर्विमोचनं कृणुते तत्त्वस्य ॥
दिश॒: सूर्यो॒ न मि॑नाति॒ प्रदि॑ष्टा दि॒वेदि॑वे॒ हर्य॑श्वप्रसूताः । सं यदान॒ळध्व॑न॒ आदिदश्वै॑र्वि॒मोच॑नं कृणुते॒ तत्त्व॑स्य ॥
díśaḥ sū́ryo ná mināti prádiṣṭā dive-dive háryaśva-prasūtāḥ | sáṃ yad ānáḷ ádhvana ā́did aśváir vimócanam kṛṇute tát tv asyá ||
As the Sun does not violate the appointed directions, so day by day the powers driven by Indra’s tawny steeds keep to their true ordinance. When he has reached the road’s end, then by the horses he makes the release—this indeed is his law: to loosen what was bound and set the movement free.
दिशः॑ । सूर्यः॑ । न । मि॒ना॒ति॒ । प्रऽदि॑ष्टाः । दि॒वेऽदि॑वे । हर्य॑श्वऽप्रसूताः । सम् । यत् । आन॑ट् । अध्व॑नः । आत् । इत् । अश्वैः॑ । वि॒ऽमोच॑नम् । कृ॒णु॒ते॒ । तत् । तु । अ॒स्य॒ ॥दिशः । सूर्यः । न । मिनाति । प्रदिष्टाः । दिवेदिवे । हर्यश्वप्रसूताः । सम् । यत् । आनट् । अध्वनः । आत् । इत् । अश्वैः । विमोचनम् । कृणुते । तत् । तु । अस्य ॥diśaḥ | sūryaḥ | na | mināti | pra-diṣṭāḥ | dive--dive | haryaśva-prasūtāḥ | sam | yat | ānaṭ | adhvanaḥ | āt | it | aśvaiḥ | vi-mocanam | kṛṇute | tat | tu | asya