Sukta 3.30
एको द्वे वसुमती समीची इन्द्र आ पप्रौ पृथिवीमुत द्याम् । उतान्तरिक्षादभि नः समीक इषो रथीः सयुजः शूर वाजान् ॥
एको॒ द्वे वसु॑मती समी॒ची इन्द्र॒ आ प॑प्रौ पृथि॒वीमु॒त द्याम् । उ॒तान्तरि॑क्षाद॒भि न॑: समी॒क इ॒षो र॒थीः स॒युज॑: शूर॒ वाजा॑न् ॥
éko dve vásumatī samīcī́ índra ā́ paprau pṛthivī́m utá dyā́m | utā́ntárikṣād abhí naḥ samī́ka iṣó rathī́ḥ sayújaḥ śūra vā́jān ||
One, O Indra, thou fillest the two rich realms that face each other—Earth and Heaven; and from the mid-region too thou comest near us to our meeting. O hero, bring the impelling energies and the yoked powers of the chariot—plenitudes of force for the victorious journey.
एकः॑ । द्वे इति॑ । वसु॑मती॒ इति॒ वसु॑ऽमती । स॒मी॒ची इति॑ स॒म्ऽई॒ची । इन्द्रः॑ । आ । प॒प्रौ॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । उ॒त । अ॒न्तरि॑क्षात् । अ॒भि । नः॒ । स॒म्ऽई॒के । इ॒षः । र॒थीः । स॒ऽयुजः॑ । शू॒र॒ । वाजा॑न् ॥एकः । द्वे इति । वसुमती इति वसुमती । समीची इति सम्ईची । इन्द्रः । आ । पप्रौ । पृथिवीम् । उत । द्याम् । उत । अन्तरिक्षात् । अभि । नः । सम्ईके । इषः । रथीः । सयुजः । शूर । वाजान् ॥ekaḥ | dve iti | vasumatī itivasu-matī | samīcī itisam-īcī | indraḥ | ā | paprau | pṛthivīm | uta | dyām | uta | antarikṣāt | abhi | naḥ | sam-īke | iṣaḥ | rathīḥ | sa-yujaḥ | śūra | vājān