Sukta 3.30
अलातृणो वल इन्द्र व्रजो गोः पुरा हन्तोर्भयमानो व्यार । सुगान्पथो अकृणोन्निरजे गाः प्रावन्वाणीः पुरुहूतं धमन्तीः ॥
अ॒ला॒तृ॒णो व॒ल इ॑न्द्र व्र॒जो गोः पु॒रा हन्तो॒र्भय॑मानो॒ व्या॑र । सु॒गान्प॒थो अ॑कृणोन्नि॒रज॒ा गाः प्राव॒न्वाणी॑: पुरुहू॒तं धम॑न्तीः ॥
alā́tṛṇo válá indra vrajó góḥ purā́ hántor bháyamāno vyā̀r | sugā́n pátho akṛṇon nirájā gā́ḥ prá̄van vā́ṇīḥ puruhūtáṃ dhámantīḥ ||
Indra, the Vala-cavern—encloser of the Rays—was shattered; before the slayer it broke apart in fear. Thou madest good paths and drove forth the Cows of light from the dark confinement; the inspired utterances, blowing like strong breaths, bore forward the much-invoked Power.
अ॒ला॒तृ॒णः । व॒लः । इ॒न्द्र॒ । व्र॒जः । गोः । पु॒रा । हन्तोः॑ । भय॑मानः । वि । आ॒र॒ । सु॒ऽगान् । प॒थः । अ॒कृ॒णो॒त् । निः॒ऽअजे॑ । गाः । प्र । आ॒व॒न् । वाणीः॑ । पु॒रु॒ऽहू॒तम् । धम॑न्तीः ॥अलातृणः । वलः । इन्द्र । व्रजः । गोः । पुरा । हन्तोः । भयमानः । वि । आर । सुगान् । पथः । अकृणोत् । निःअजे । गाः । प्र । आवन् । वाणीः । पुरुहूतम् । धमन्तीः ॥alātṛṇaḥ | valaḥ | indra | vrajaḥ | goḥ | purā | hantoḥ | bhayamānaḥ | vi | āra | su-gān | pathaḥ | akṛṇot | niḥ-aje | gāḥ | pra | āvan | vāṇīḥ | puru-hūtam | dhamantīḥ