Sukta 3.3
विभावा देवः सुरणः परि क्षितीरग्निर्बभूव शवसा सुमद्रथः । तस्य व्रतानि भूरिपोषिणो वयमुप भूषेम दम आ सुवृक्तिभिः ॥
वि॒भावा॑ दे॒वः सु॒रण॒: परि॑ क्षि॒तीर॒ग्निर्ब॑भूव॒ शव॑सा सु॒मद्र॑थः । तस्य॑ व्र॒तानि॑ भूरिपो॒षिणो॑ व॒यमुप॑ भूषेम॒ दम॒ आ सु॑वृ॒क्तिभि॑: ॥
vibhā́vā deváḥ su-raṇaḥ pári kṣitī́r agnír babhūva śávasā su-mádrathaḥ | tásya vratā́ni bhūri-poṣíṇo vayám úpa bhūṣema dáma ā́ su-vṛ́kti-bhiḥ ||
Agni, the luminous One, the god of noble delight, has encompassed the worlds by his force, a chariot of good thought and right movement. May we in our dwelling draw near and adorn his ordinances that foster abundant growth, by our well-fashioned words.
वि॒भाऽवा॑ । दे॒वः । सु॒ऽरणः । परि॑ । क्षि॒तीः । अ॒ग्निः । ब॒भू॒व॒ । शव॑सा । सु॒मत्ऽर॑थः । तस्य॑ । व्र॒तानि॑ । भू॒रि॒ऽपो॒षिणः॑ । व॒यम् । उप॑ । भू॒षे॒म॒ । दमे॑ । आ । सु॒वृ॒क्तिऽभिः॑ ॥विभावा । देवः । सुरणः । परि । क्षितीः । अग्निः । बभूव । शवसा । सुमत्रथः । तस्य । व्रतानि । भूरिपोषिणः । वयम् । उप । भूषेम । दमे । आ । सुवृक्तिभिः ॥vibhāvā | devaḥ | su-raṇaḥ | pari | kṣitīḥ | agniḥ | babhūva | śavasā | sumat-rathaḥ | tasya | vratāni | bhūri-poṣiṇaḥ | vayam | upa | bhūṣema | dame | ā | suvṛkti-bhiḥ