Sukta 3.3
विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघताम् । अध्वराणां चेतनं जातवेदसं प्र शंसन्ति नमसा जूतिभिर्वृधे ॥
वि॒श्पतिं॑ य॒ह्वमति॑थिं॒ नर॒: सदा॑ य॒न्तारं॑ धी॒नामु॒शिजं॑ च वा॒घता॑म् । अ॒ध्व॒राणां॒ चेत॑नं जा॒तवे॑दसं॒ प्र शं॑सन्ति॒ नम॑सा जू॒तिभि॑र्वृ॒धे ॥
viśpátiṃ yahvám atíthiṃ nárāḥ sádā yantā́raṃ dhīnā́m uśíjaṃ ca vāghátām | adhvarā́ṇāṃ cétanaṃ jāta-védasaṃ prá śaṃsanti námasā jūtí-bhir vṛdhé ||
Men ever proclaim with reverence and swift offerings Jātavedas—lord of the clan, the strong pilgrim-guest, the driver of inspired thoughts, the eager flame of the singers; the awakener of the paths of sacrifice, for his increase.
वि॒श्पति॑म् । य॒ह्वम् । अति॑थिम् । नरः॑ । सदा॑ । य॒न्तार॑म् । धी॒नाम् । उ॒शिज॑म् । च॒ । वा॒घता॑म् । अ॒ध्व॒राणा॑म् । चेत॑नम् । जा॒तऽवे॑दस॑म् । प्र । शं॒स॒न्ति॒ । नम॑सा । जू॒तिऽभिः॑ । वृ॒धे ॥विश्पतिम् । यह्वम् । अतिथिम् । नरः । सदा । यन्तारम् । धीनाम् । उशिजम् । च । वाघताम् । अध्वराणाम् । चेतनम् । जातवेदसम् । प्र । शंसन्ति । नमसा । जूतिभिः । वृधे ॥viśpatim | yahvam | atithim | naraḥ | sadā | yantāram | dhīnām | uśijam | ca | vāghatām | adhvarāṇām | cetanam | jāta-vedasam | pra | śaṃsanti | namasā | jūti-bhiḥ | vṛdhe