Sukta 3.3
वैश्वानर तव धामान्या चके येभिः स्वर्विदभवो विचक्षण । जात आपृणो भुवनानि रोदसी अग्ने ता विश्वा परिभूरसि त्मना ॥
वैश्वा॑नर॒ तव॒ धामा॒न्या च॑के॒ येभि॑: स्व॒र्विदभ॑वो विचक्षण । जा॒त आपृ॑णो॒ भुव॑नानि॒ रोद॑सी॒ अग्न॒ू ता विश्वा॑ परि॒भूर॑सि॒ त्मना॑ ॥
vaiśvā́nara táva dhā́māny ā́ cakre yébhiḥ svaḥ-víd ábhavo vi-cákṣaṇa | jā́ta ā́pṛṇo bhúvanāni ródasī́ agne tā́ víśvā pári-bhū́r asi tmánā ||
O Vaiśvānara, thou hast fashioned thy seats of power by which thou becamest the knower of the luminous heaven, the wide-seeing. Born, thou didst fill the worlds and the two firmaments; O Agni, by thy own self-being thou encompassest and surpassest all these.
वैश्वा॑नर । तव॑ । धामा॑नि । आ । च॒क्रे॒ । येभिः॑ । स्वः॒ऽवित् । अभ॑वः । वि॒ऽच॒क्ष॒ण॒ । जा॒तः । आ । अ॒पृ॒णः॒ । भुव॑नानि । रोद॑सी॒ इति॑ । अग्ने॑ । ता । विश्वा॑ । प॒रि॒ऽभूः । अ॒सि॒ । त्मना॑ ॥वैश्वानर । तव । धामानि । आ । चक्रे । येभिः । स्वःवित् । अभवः । विचक्षण । जातः । आ । अपृणः । भुवनानि । रोदसी इति । अग्ने । ता । विश्वा । परिभूः । असि । त्मना ॥vaiśvānara | tava | dhāmāni | ā | cakre | yebhiḥ | svaḥ-vit | abhavaḥ | vi-cakṣaṇa | jātaḥ | ā | apṛṇaḥ | bhuvanāni | rodasī iti | agne | tā | viśvā | pari-bhūḥ | asi | tmanā