Sukta 3.3
अग्ने जरस्व स्वपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः । वयांसि जिन्व बृहतश्च जागृव उशिग्देवानामसि सुक्रतुर्विपाम् ॥
अग्ने॒ जर॑स्व स्वप॒त्य आयु॑न्यू॒र्जा पि॑न्वस्व॒ समिषो॑ दिदीहि नः । वयां॑सि जिन्व बृह॒तश्च॑ जागृव उ॒शिग्दे॒वाना॒मसि॑ सु॒क्रतु॑र्वि॒पाम् ॥
agné járasva sva-patyá ā́yuni ūrjā́ pinvasva sám iṣó didīhi naḥ | vayā́ṃsi jinva bṛhatáś ca jāgṛva uśíg devā́nām ási su-krátur vipā́m ||
O Agni, grow in us for a good mastery and a long course; strengthen us by the delighting energy, and kindle our harmonies. Increase our powers of flight, and awaken to the Vast; you are the eager flame of the gods, the good-willed intelligence of the seers.
अग्ने॑ । जर॑स्व । सु॒ऽअ॒प॒त्ये । आयु॑नि । ऊ॒र्जा । पि॒न्व॒स्व॒ । सम् । इषः॑ । दि॒दी॒हि॒ । नः॒ । वयां॑सि । जि॒न्व॒ । बृ॒ह॒तः । च॒ । जा॒गृ॒वे॒ । उ॒शिक् । दे॒वाना॑म् । असि॑ । सु॒ऽक्रतुः॑ । वि॒पाम् ॥अग्ने । जरस्व । सुअपत्ये । आयुनि । ऊर्जा । पिन्वस्व । सम् । इषः । दिदीहि । नः । वयांसि । जिन्व । बृहतः । च । जागृवे । उशिक् । देवानाम् । असि । सुक्रतुः । विपाम् ॥agne | jarasva | su-apatye | āyuni | ūrjā | pinvasva | sam | iṣaḥ | didīhi | naḥ | vayāṃsi | jinva | bṛhataḥ | ca | jāgṛve | uśik | devānām | asi | su-kratuḥ | vipām