Sukta 3.3
अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया । रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः ॥
अ॒ग्निर्दे॒वेभि॒र्मनु॑षश्च ज॒न्तुभि॑स्तन्वा॒नो य॒ज्ञं पु॑रु॒पेश॑सं धि॒या । र॒थीर॒न्तरी॑यते॒ साध॑दिष्टिभिर्जी॒रो दमू॑ना अभिशस्ति॒चात॑नः ॥
agnír devébhir mánuṣaś ca jantúbhis tanvānáḥ yajñáṃ puru-péśasaṃ dhiyā́ | rathī́r antár īyate sā́dhadiṣṭi-bhir jīró damū́nā abhiśasti-cā́tanaḥ ||
Agni, with the gods and with men and all living beings, extends the sacrifice with the inspired thought, making it richly formed. Like a charioteer he moves within by perfect accomplishings; swift in his dwelling, he drives away the assaults of hostile affirmation.
अ॒ग्निः । दे॒वेभिः॑ । मनु॑षः । च॒ । ज॒न्तुऽभिः॑ । त॒न्वा॒नः । य॒ज्ञम् । पु॒रु॒ऽपेश॑सम् । धि॒या । र॒थीः । अ॒न्तः । ई॒य॒ते॒ । साध॑दिष्टिऽभिः । जी॒रः । दमू॑नाः । अ॒भि॒श॒स्ति॒ऽचात॑नः ॥अग्निः । देवेभिः । मनुषः । च । जन्तुभिः । तन्वानः । यज्ञम् । पुरुपेशसम् । धिया । रथीः । अन्तः । ईयते । साधदिष्टिभिः । जीरः । दमूनाः । अभिशस्तिचातनः ॥agniḥ | devebhiḥ | manuṣaḥ | ca | jantu-bhiḥ | tanvānaḥ | yajñam | puru-peśasam | dhiyā | rathīḥ | antaḥ | īyate | sādhadiṣṭi-bhiḥ | jīraḥ | damūnāḥ | abhiśasti-cātanaḥ