Sukta 3.3
चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं स्वर्विदम् । विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुः ॥
च॒न्द्रम॒ग्निं च॒न्द्रर॑थं॒ हरि॑व्रतं वैश्वान॒रम॑प्सु॒षदं॑ स्व॒र्विद॑म् । वि॒गा॒हं तूर्णिं॒ तवि॑षीभि॒रावृ॑तं॒ भूर्णिं॑ दे॒वास॑ इ॒ह सु॒श्रियं॑ दधुः ॥
candráṃ agníṃ candra-ráthaṃ hári-vrataṃ vaiśvānarám apsu-sádaṃ svaḥ-vídam | vi-gā́haṃ tū́rṇiṃ táviṣībhi r ā́vṛtaṃ bhūrṇíṃ devā́sa ihá su-śríyaṃ dadh uḥ ||
The shining Agni, with a shining chariot, faithful to the luminous law—Vaiśvānara seated in the waters, knower of the supramental world—plunging forward, swift, wrapped in his powers: him, the whirling force, the gods have set here for a beautiful splendour.
च॒न्द्रम् । अ॒ग्निम् । च॒न्द्रऽर॑थम् । हरि॑ऽव्रतम् । वै॒श्वा॒न॒रम् । अ॒प्सु॒ऽसद॑म् । स्वः॒ऽविद॑म् । वि॒ऽगा॒हम् । तूर्णि॑म् । तवि॑षीभिः । आऽवृ॑तम् । भूर्णि॑म् । दे॒वासः॑ । इ॒ह । सु॒ऽश्रिय॑म् । द॒धुः॒ ॥चन्द्रम् । अग्निम् । चन्द्ररथम् । हरिव्रतम् । वैश्वानरम् । अप्सुसदम् । स्वःविदम् । विगाहम् । तूर्णिम् । तविषीभिः । आवृतम् । भूर्णिम् । देवासः । इह । सुश्रियम् । दधुः ॥candram | agnim | candra-ratham | hari-vratam | vaiśvānaram | apsu-sadam | svaḥ-vidam | vi-gāham | tūrṇim | taviṣībhiḥ | āvṛtam | bhūrṇim | devāsaḥ | iha | su-śriyam | dadhuḥ