Sukta 3.3
पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनं च वाघताम् । आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः ॥
पि॒ता य॒ज्ञाना॒मसु॑रो विप॒श्चितां॑ वि॒मान॑म॒ग्निर्व॒युनं॑ च वा॒घता॑म् । आ वि॑वेश॒ रोद॑सी॒ भूरि॑वर्पसा पुरुप्रि॒यो भ॑न्दते॒ धाम॑भिः क॒विः ॥
pitā́ yajñā́nām ásuro vipaścitā́ṃ vimā́nam agnír vayúnaṃ ca vāghátām | ā́ viveśa rodasī bhū́ri-varpasā puru-priyó bhandate dhā́ma-bhiḥ kavíḥ ||
Agni is the father of the sacrifices, a lord of power for the seers of vision; he is their measure and their discerning method. With abundant radiance he has entered the two worlds; the seer, beloved of many, shines forth through his manifold dwellings of light.
पि॒ता । य॒ज्ञाना॑म् । असु॑रः । वि॒पः॒ऽचिता॑म् । वि॒ऽमान॑म् । अ॒ग्निः । व॒युन॑म् । च॒ । वा॒घता॑म् । आ । वि॒वे॒श॒ । रोद॑सी॒ इति॑ । भूरि॑ऽवर्पसा । पु॒रु॒ऽप्रि॒यः । भ॒न्द॒ते॒ । धाम॑ऽभिः । क॒विः ॥पिता । यज्ञानाम् । असुरः । विपःचिताम् । विमानम् । अग्निः । वयुनम् । च । वाघताम् । आ । विवेश । रोदसी इति । भूरिवर्पसा । पुरुप्रियः । भन्दते । धामभिः । कविः ॥pitā | yajñānām | asuraḥ | vipaḥ-citām | vi-mānam | agniḥ | vayunam | ca | vāghatām | ā | viveśa | rodasī iti | bhūri-varpasā | puru-priyaḥ | bhandate | dhāma-bhiḥ | kaviḥ