Sukta 3.3
वैश्वानरस्य दंसनाभ्यो बृहदरिणादेकः स्वपस्यया कविः । उभा पितरा महयन्नजायताग्निर्द्यावापृथिवी भूरिरेतसा ॥
वै॒श्वा॒न॒रस्य॑ दं॒सना॑भ्यो बृ॒हदरि॑णा॒देक॑: स्वप॒स्यया॑ क॒विः । उ॒भा पि॒तरा॑ म॒हय॑न्नजायता॒ग्निर्द्यावा॑पृथि॒वी भूरि॑रेतसा ॥
vaiśvānarásya daṃsanā́bhyo bṛhád áriṇād ékaḥ su-apasyáyā kavíḥ | ubhā́ pitárā maháyann ajāyatāgnír dyāvā́pṛthivī́ bhū́ri-retasā ||
From the mighty workings of Vaiśvānara the One was born vast, the seer by his perfect skill. Magnifying the two Parents, Agni came to birth—Heaven and Earth—rich in the seed of abundance.
वै॒श्वा॒न॒रस्य॑ । दं॒सना॑भ्यः । बृ॒हत् । अरि॑णात् । एकः॑ । सु॒ऽअ॒प॒स्यया॑ । क॒विः । उ॒भा । पि॒तरा॑ । म॒हय॑न् । अ॒जा॒य॒त॒ । अ॒ग्निः । द्यावा॑पृथि॒वी इति॑ । भूरि॑ऽरेतसा ॥वैश्वानरस्य । दंसनाभ्यः । बृहत् । अरिणात् । एकः । सुअपस्यया । कविः । उभा । पितरा । महयन् । अजायत । अग्निः । द्यावापृथिवी इति । भूरिरेतसा ॥vaiśvānarasya | daṃsanābhyaḥ | bṛhat | ariṇāt | ekaḥ | su-apasyayā | kaviḥ | ubhā | pitarā | mahayan | ajāyata | agniḥ | dyāvāpṛthivī iti | bhūri-retasā