Sukta 3.29
कृणोत धूमं वृषणं सखायोऽस्रेधन्त इतन वाजमच्छ । अयमग्निः पृतनाषाट् सुवीरो येन देवासो असहन्त दस्यून् ॥
कृ॒णोत॑ धू॒मं वृष॑णं सखा॒योऽस्रे॑धन्त इतन॒ वाज॒मच्छ॑ । अ॒यम॒ग्निः पृ॑तना॒षाट् सु॒वीरो॒ येन॑ दे॒वासो॒ अस॑हन्त॒ दस्यू॑न् ॥
kṛṇóta dhūmáṃ vṛ́ṣaṇaṃ sakhāyo ’sredhanta itana vājám áccha | ayám agníḥ pṛtanāṣā́ṭ suvī́ro yéna devā́so ásahanta dásyūn ||
Make the smoke a mighty bull, O comrades; un-faltering, press on toward plenitude. This is that Agni, victorious in battles, rich in heroic force, by whom the gods overcame the Dasyus—the dark obstructions.
कृ॒णोत॑ । धू॒म॑म् । वृष॑णम् । स॒खा॒यः॒ । अस्रे॑धन्तः । इ॒त॒न॒ । वाज॑म् । अच्छ॑ । अ॒यम् । अ॒ग्निः । पृ॒त॒ना॒षाट् । सु॒ऽवीरः॑ । येन॑ । दे॒वासः॑ । अस॑हन्त । दस्यू॑न् ॥कृणोत । धूमम् । वृषणम् । सखायः । अस्रेधन्तः । इतन । वाजम् । अच्छ । अयम् । अग्निः । पृतनाषाट् । सुवीरः । येन । देवासः । असहन्त । दस्यून् ॥kṛṇota | dhūmam | vṛṣaṇam | sakhāyaḥ | asredhantaḥ | itana | vājam | accha | ayam | agniḥ | pṛtanāṣāṭ | su-vīraḥ | yena | devāsaḥ | asahanta | dasyūn