Sukta 3.29
अयं ते योनिॠत्वियो यतो जातो अरोचथाः । तं जानन्नग्न आ सीदाथा नो वर्धया गिरः ॥
अ॒यं ते॒ योनि॑ॠ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आ सी॒दाथा॑ नो वर्धया॒ गिर॑: ॥
ayáṃ te yóniḥ ṛtv́iyo yáto jātó árocathāḥ | táṃ jānánn agna ā́ sī́dā́thā no vardhayā gíraḥ ||
This is thy season-true womb from which, once born, thou shinest; knowing it, O Agni, sit here—then increase for us the inspired utterances that grow the soul.
अ॒यम् । ते॒ । योनिः॑ । ऋ॒त्वियः॑ । यतः॑ । जा॒तः । अरो॑चथाः । तम् । जा॒नन् । अ॒ग्ने॒ । आ । सी॒द॒ । अथ॑ । नः॒ । व॒र्ध॒य॒ । गिरः॑ ॥अयम् । ते । योनिः । ऋत्वियः । यतः । जातः । अरोचथाः । तम् । जानन् । अग्ने । आ । सीद । अथ । नः । वर्धय । गिरः ॥ayam | te | yoniḥ | ṛtviyaḥ | yataḥ | jātaḥ | arocathāḥ | tam | jānan | agne | ā | sīda | atha | naḥ | vardhaya | giraḥ