Sukta 3.29
सीद होतः स्व उ लोके चिकित्वान्त्सादया यज्ञं सुकृतस्य योनौ । देवावीर्देवान्हविषा यजास्यग्ने बृहद्यजमाने वयो धाः ॥
सीद॑ होत॒: स्व उ॑ लो॒के चि॑कि॒त्वान्त्सा॒दया॑ य॒ज्ञं सु॑कृ॒तस्य॒ योनौ॑ । दे॒वा॒वीर्दे॒वान्ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ॥
sī́da hotaḥ svá u loké cikitvā́nts sā́dayā yajñáṃ sukṛtásya yónau | devāvī́r devā́n havíṣā yajāsy ágne bṛhád yajamāné váyo dhāḥ ||
Sit, O Hotṛ, in thy own home, knowing; seat the sacrifice in the womb of the well-done work. As the helper of the gods, sacrifice to the gods with the offering; O Agni, place in the sacrificer the wide life-force and growth.
सीद॑ । हो॒त॒रिति॑ । स्वे । ऊँ॒ इति॑ । लो॒के । चि॒कि॒त्वान् । सा॒दय॑ । य॒ज्ञम् । सु॒ऽकृ॒तस्य॑ । योनौ॑ । दे॒व॒ऽअ॒वीः । दे॒वान् । ह॒विषा॑ । य॒जा॒सि॒ । अग्ने॑ । बृ॒हत् । यज॑माने । वयः॑ । धाः॒ ॥सीद । होतरिति । स्वे । ऊँ इति । लोके । चिकित्वान् । सादय । यज्ञम् । सुकृतस्य । योनौ । देवअवीः । देवान् । हविषा । यजासि । अग्ने । बृहत् । यजमाने । वयः । धाः ॥sīda | hotariti | sve | oṃ iti | loke | cikitvān | sādaya | yajñam | su-kṛtasya | yonau | deva-avīḥ | devān | haviṣā | yajāsi | agne | bṛhat | yajamāne | vayaḥ | dhāḥ