Sukta 3.29
जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः । यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु ॥
जा॒तो अ॒ग्नी रो॑चते॒ चेकि॑तानो वा॒जी विप्र॑: कविश॒स्तः सु॒दानु॑: । यं दे॒वास॒ ईड्यं॑ विश्व॒विदं॑ हव्य॒वाह॒मद॑धुरध्व॒रेषु॑ ॥
jātó agnī́ rocate cékītāno vājī́ vípraḥ kaviśastáḥ sudā́nuḥ | yáṃ devā́sa ī́ḍyaṃ viśvavídaṃ havyavā́ham ádadḥur adhvaréṣu ||
Born, Agni shines, awake and discerning—winner of plenitude, inspired, praised by seers, rich in right giving; him the gods have set in the works of sacrifice, adorable, all-knowing, the carrier of the offering.
जा॒तः । अ॒ग्निः । रो॒च॒ते॒ । चेकि॑तानः । वा॒जी । विप्रः॑ । क॒वि॒ऽश॒स्तः । सु॒ऽदानुः॑ । यम् । दे॒वासः॑ । ईड्य॑म् । वि॒श्व॒ऽविद॑म् । ह॒व्य॒ऽवाह॑म् । अद॑धुः । अ॒ध्व॒रेषु॑ ॥जातः । अग्निः । रोचते । चेकितानः । वाजी । विप्रः । कविशस्तः । सुदानुः । यम् । देवासः । ईड्यम् । विश्वविदम् । हव्यवाहम् । अदधुः । अध्वरेषु ॥jātaḥ | agniḥ | rocate | cekitānaḥ | vājī | vipraḥ | kavi-śastaḥ | su-dānuḥ | yam | devāsaḥ | īḍyam | viśva-vidam | havya-vāham | adadhuḥ | adhvareṣu