Sukta 3.29
यदी मन्थन्ति बाहुभिर्वि रोचतेऽश्वो न वाज्यरुषो वनेष्वा । चित्रो न यामन्नश्विनोरनिवृतः परि वृणक्त्यश्मनस्तृणा दहन् ॥
यदी॒ मन्थ॑न्ति बा॒हुभि॒र्वि रो॑च॒तेऽश्वो॒ न वा॒ज्य॑रु॒षो वने॒ष्वा । चि॒त्रो न याम॑न्न॒श्विनो॒रनि॑वृत॒: परि॑ वृण॒क्त्यश्म॑न॒स्तृणा॒ दह॑न् ॥
yádī mánthanti bāhúbhir ví rocate ’śvó na vāj́y aruṣó váneṣv ā́ | citró na yā́mann aśvínor anivṛ́taḥ pári vṛṇakty áśmanaḥ tṛ́ṇā dáhan ||
When they churn with their arms, he shines out—like a swift red steed of force in the woods; like a brilliant journey of the Aśvins, unobstructed, he ranges around, burning up the stone-hardness and the dry grasses of the being.
यदि॑ । मन्थ॑न्ति । बा॒हुऽभिः॑ । वि । रो॒च॒ते॒ । अश्वः॑ । न । वा॒जी । अ॒रु॒षः । वने॑षु । आ । चि॒त्रः । न । याम॑न् । अ॒श्विनोः॑ । अनि॑ऽवृतः । परि॑ । वृ॒ण॒क्ति॒ । अश्म॑नः । तृणा॑ । दह॑न् ॥यदि । मन्थन्ति । बाहुभिः । वि । रोचते । अश्वः । न । वाजी । अरुषः । वनेषु । आ । चित्रः । न । यामन् । अश्विनोः । अनिवृतः । परि । वृणक्ति । अश्मनः । तृणा । दहन् ॥yadi | manthanti | bāhu-bhiḥ | vi | rocate | aśvaḥ | na | vājī | aruṣaḥ | vaneṣu | ā | citraḥ | na | yāman | aśvinoḥ | ani-vṛtaḥ | pari | vṛṇakti | aśmanaḥ | tṛṇā | dahan