Sukta 3.29
मन्थता नरः कविमद्वयन्तं प्रचेतसममृतं सुप्रतीकम् । यज्ञस्य केतुं प्रथमं पुरस्तादग्निं नरो जनयता सुशेवम् ॥
मन्थ॑ता नरः क॒विमद्व॑यन्तं॒ प्रचे॑तसम॒मृतं॑ सु॒प्रती॑कम् । य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रस्ता॑द॒ग्निं न॑रो जनयता सु॒शेव॑म् ॥
mánthatā naraḥ kavím ádvayantaṃ prácetasam amṛ́taṃ suprátīkam | yajñásya ketúṃ prathamáṃ purástād agníṃ naro janayatā suśévam ||
O human seekers, churn out and bring to birth Agni—the seer-will that does not waver, wide in conscious power, deathless, with a radiant face; establish him first as the banner of the sacrifice in front, the fire of the journey, the giver of a happy and harmonious good.
मन्थ॑त । न॒रः॒ । क॒विम् । अद्व॑यन्तम् । प्रऽचे॑तसम् । अ॒मृत॑म् । सु॒ऽप्रती॑कम् । य॒ज्ञस्य॑ । के॒तुम् । प्र॒थ॒मम् । पु॒रस्ता॑त् । अ॒ग्निम् । न॒रः॒ । ज॒न॒य॒त॒ । सु॒ऽशेव॑म् ॥मन्थत । नरः । कविम् । अद्वयन्तम् । प्रचेतसम् । अमृतम् । सुप्रतीकम् । यज्ञस्य । केतुम् । प्रथमम् । पुरस्तात् । अग्निम् । नरः । जनयत । सुशेवम् ॥manthata | naraḥ | kavim | advayantam | pra-cetasam | amṛtam | su-pratīkam | yajñasya | ketum | prathamam | purastāt | agnim | naraḥ | janayata | su-śevam