Sukta 3.29
इळायास्त्वा पदे वयं नाभा पृथिव्या अधि । जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे ॥
इळा॑यास्त्वा प॒दे व॒यं नाभा॑ पृथि॒व्या अधि॑ । जात॑वेदो॒ नि धी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोळ्ह॑वे ॥
íḷāyās tvā padé vayáṃ nā́bhā pṛthivyā́ ádhi | jātávedo ní dhīmahy ágné havyā́ya vóḷhave ||
At the station of Iḷā, at Earth’s navel, we set you down, O Jātavedas. O Agni, be established to carry our offerings—so the divine exchange may move rightly.
इळा॑याः । त्वा॒ । प॒दे । व॒यम् । नाभा॑ । पृ॒थि॒व्याः । अधि॑ । जात॑ऽवेदः । नि । धी॒म॒हि॒ । अग्ने॑ । ह॒व्याय॑ । वोळ्ह॑वे ॥इळायाः । त्वा । पदे । वयम् । नाभा । पृथिव्याः । अधि । जातवेदः । नि । धीमहि । अग्ने । हव्याय । वोळ्हवे ॥iḷāyāḥ | tvā | pade | vayam | nābhā | pṛthivyāḥ | adhi | jāta-vedaḥ | ni | dhīmahi | agne | havyāya | voḷhave