Sukta 3.29
उत्तानायामव भरा चिकित्वान्त्सद्यः प्रवीता वृषणं जजान । अरुषस्तूपो रुशदस्य पाज इळायास्पुत्रो वयुनेऽजनिष्ट ॥
उ॒त्ता॒नाया॒मव॑ भरा चिकि॒त्वान्त्स॒द्यः प्रवी॑ता॒ वृष॑णं जजान । अ॒रु॒षस्तू॑पो॒ रुश॑दस्य॒ पाज॒ इळा॑यास्पु॒त्रो व॒युने॑ऽजनिष्ट ॥
uttānā́yām áva bharā cikitvā́n tsadyaḥ pravī́tā vṛ́ṣaṇaṃ jajāna | aruṣá-stūpo rúśad asya pā́ja íḷāyāḥ putró vayúne 'janiṣṭa ||
On the outstretched (lower) wood, bring it down—O knower—at once the driven churning begets the strong Bull. With ruddy crest his radiance shines; the Son of Iḷā is born by the secret workings of the rite.
उ॒त्ता॒नाया॒म् । अव॑ । भ॒र॒ । चि॒कि॒त्वान् । स॒द्यः । प्रऽवी॑ता । वृष॑णम् । ज॒जा॒न॒ । अ॒रु॒षऽस्तू॑पः । रुश॑त् । अ॒स्य॒ । पाजः॑ । इळा॑याः । पु॒त्रः । व॒युने॑ । अ॒ज॒नि॒ष्ट॒ ॥उत्तानायाम् । अव । भर । चिकित्वान् । सद्यः । प्रवीता । वृषणम् । जजान । अरुषस्तूपः । रुशत् । अस्य । पाजः । इळायाः । पुत्रः । वयुने । अजनिष्ट ॥uttānāyām | ava | bhara | cikitvān | sadyaḥ | pra-vītā | vṛṣaṇam | jajāna | aruṣa-stūpaḥ | ruśat | asya | pājaḥ | iḷāyāḥ | putraḥ | vayune | ajaniṣṭa