Sukta 3.29
अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु । दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥
अ॒रण्यो॒र्निहि॑तो जा॒तवे॑दा॒ गर्भ॑ इव॒ सुधि॑तो ग॒र्भिणी॑षु । दि॒वेदि॑व॒ ईड्यो॑ जागृ॒वद्भि॑र्ह॒विष्म॑द्भिर्मनु॒ष्ये॑भिर॒ग्निः ॥
araṇyór níhito jātávedā gárbha iva súdhito garbhiṇī́ṣu | divé-dive ī́ḍyo jāgṛvád-bhir havíṣmad-bhir manuṣyébhir agníḥ ||
Jātavedas is hidden in the two woods like an embryo well-set within the pregnant ones. Day by day Agni is to be sought and adored by wakeful human beings who bear the offering—those who keep the flame of consciousness vigilant.
अ॒रण्योः॑ । निऽहि॑तः । जा॒तऽवे॑दाः । गर्भः॑ऽइव । सुऽधि॑तः । ग॒र्भिणी॑षु । दि॒वेऽदि॑वे । ईड्यः॑ । जा॒गृ॒वत्ऽभिः॑ । ह॒विष्म॑त्ऽभिः । म॒नु॒ष्ये॑भिः । अ॒ग्निः ॥अरण्योः । निहितः । जातवेदाः । गर्भःइव । सुधितः । गर्भिणीषु । दिवेदिवे । ईड्यः । जागृवत्भिः । हविष्मत्भिः । मनुष्येभिः । अग्निः ॥araṇyoḥ | ni-hitaḥ | jāta-vedāḥ | garbhaḥ-iva | su-dhitaḥ | garbhiṇīṣu | dive--di ve | īḍyaḥ | jāgṛvat-bhiḥ | haviṣmat-bhiḥ | manuṣyebhiḥ | agniḥ