Sukta 3.29
अस्तीदमधिमन्थनमस्ति प्रजननं कृतम् । एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा ॥
अस्ती॒दम॑धि॒मन्थ॑न॒मस्ति॑ प्र॒जन॑नं कृ॒तम् । ए॒तां वि॒श्पत्नी॒मा भ॑रा॒ग्निं म॑न्थाम पू॒र्वथा॑ ॥
astī́dam adhi-mánthanaṃ ásti pra-jánanaṃ kṛtám | etā́ṃ viśpátnīm ā́ bharāgníṃ manthāma pū́rva-thā ||
Here is the churning-stick; here is the prepared means of generation. Bring the Lady of the house; let us churn out Agni as in the ancient way—bringing forth the hidden fire of the soul.
अस्ति॑ । इ॒दम् । अ॒धि॒ऽमन्थ॑नम् । अस्ति॑ । प्र॒ऽजन॑नम् । कृ॒तम् । ए॒ताम् । वि॒श्पत्नी॑म् । आ । भ॒र॒ । अ॒ग्निम् । म॒न्था॒म॒ । पू॒र्वऽथा॑ ॥अस्ति । इदम् । अधिमन्थनम् । अस्ति । प्रजननम् । कृतम् । एताम् । विश्पत्नीम् । आ । भर । अग्निम् । मन्थाम । पूर्वथा ॥asti | idam | adhi-manthanam | asti | pra-jananam | kṛtam | etām | viśpatnīm | ā | bhara | agnim | manthāma | pūrva-thā