Sukta 3.29
अमित्रायुधो मरुतामिव प्रयाः प्रथमजा ब्रह्मणो विश्वमिद्विदुः । द्युम्नवद्ब्रह्म कुशिकास एरिर एकएको दमे अग्निं समीधिरे ॥
अ॒मि॒त्रा॒युधो॑ म॒रुता॑मिव प्र॒याः प्र॑थम॒जा ब्रह्म॑णो॒ विश्व॒मिद्वि॑दुः । द्यु॒म्नव॒द्ब्रह्म॑ कुशि॒कास॒ एरि॑र॒ एक॑एको॒ दमे॑ अ॒ग्निं समी॑धिरे ॥
amitrā́yudho marútām iva práyāḥ prathamajā́ bráhmaṇo víśvam íd viduḥ | dyumnávad bráhma kuśikā́sa érire éka-eko dáme agníṃ sám īdhire ||
Armed against the hostile forces, like the Maruts in their forward surge, these first-born movements of the Word know the whole truth of the working. The Kushikas uplifted a luminous, victorious mantra; each one, in his own inner home, kindled Agni perfectly into a single flame of power.
अ॒मि॒त्र॒ऽयुधः॑ । म॒रुता॑म्ऽइव । प्र॒ऽयाः । प्र॒थ॒म॒ऽजाः । ब्रह्म॑णः । विश्व॑म् । इत् । वि॒दुः॒ । द्यु॒म्नऽव॑त् । ब्रह्म॑ । कु॒शि॒कासः॑ । आ । ई॒रि॒रे॒ । एकः॑ऽएकः । दमे॑ । अ॒ग्निम् । सम् । ई॒धि॒रे॒ ॥अमित्रयुधः । मरुताम्इव । प्रयाः । प्रथमजाः । ब्रह्मणः । विश्वम् । इत् । विदुः । द्युम्नवत् । ब्रह्म । कुशिकासः । आ । ईरिरे । एकःएकः । दमे । अग्निम् । सम् । ईधिरे ॥amitra-yudhaḥ | marutām-iva | pra-yāḥ | prathama-jāḥ | brahmaṇaḥ | viśvam | it | viduḥ | dyumna-vat | brahma | kuśikāsaḥ | ā | īrire | ekaḥ-ekaḥ | dame | agn im | sam | īdhire