Sukta 3.29
प्र सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि । न नि मिषति सुरणो दिवेदिवे यदसुरस्य जठरादजायत ॥
प्र स॒प्तहो॑ता सन॒काद॑रोचत मा॒तुरु॒पस्थे॒ यदशो॑च॒दूध॑नि । न नि मि॑षति सु॒रणो॑ दि॒वेदि॑वे॒ यदसु॑रस्य ज॒ठरा॒दजा॑यत ॥
prá saptáhotā sanakā́d arocata mātúr upásthe yád aśócad ū́dhani | ná ní miṣati suráṇo divédive yád ásurasya jaṭhárād ájāyata ||
Forth shone the Seven-Hotṛ from the primeval origin, when he blazed in the Mother’s lap, in the udder of nourishment. He does not wink, the good-giving one, day by day, since he was born from the belly of the lordly power.
प्र । स॒प्तऽहो॑ता । स॒न॒कात् । अ॒रो॒च॒त॒ । मा॒तुः । उ॒पऽस्थे॑ । यत् । अशो॑चत् । ऊध॑नि । न । नि । मि॒ष॒ति॒ । सु॒ऽरणः॑ । दि॒वेऽदि॑वे । यत् । असु॑रस्य । ज॒ठरा॑त् । अजा॑यत ॥प्र । सप्तहोता । सनकात् । अरोचत । मातुः । उपस्थे । यत् । अशोचत् । ऊधनि । न । नि । मिषति । सुरणः । दिवेदिवे । यत् । असुरस्य । जठरात् । अजायत ॥pra | sapta-hotā | sanakāt | arocata | mātuḥ | upa-sthe | yat | aśocat | ūdhani | na | ni | miṣati | su-raṇaḥ | dive--dive | yat | asurasya | jaṭharāt | ajāyata