Sukta 3.29
यदद्य त्वा प्रयति यज्ञे अस्मिन्होतश्चिकित्वोऽवृणीमहीह । ध्रुवमया ध्रुवमुताशमिष्ठाः प्रजानन्विद्वाँ उप याहि सोमम् ॥
यद॒द्य त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्होत॑श्चिकि॒त्वोऽवृ॑णीमही॒ह । ध्रु॒वम॑या ध्रु॒वमु॒ताश॑मिष्ठाः प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोम॑म् ॥
yád adyá tvā prayatí yajñé asmín hótāś cikitvó ’vṛṇīmahi há | dhrúvam ayā dhrúvam utā́śamiṣṭhāḥ prajā́nann vidvā́n úpa yāhi sómam ||
Since today, in this advancing sacrifice, we have chosen you here as the discerning Hotar, come by the sure path, come to the sure seat of peace; knowing the births and their meanings, the Wise One, draw near to the Soma within us.
यत् । अ॒द्य । त्वा॒ । प्र॒ऽय॒ति । य॒ज्ञे । अ॒स्मिन् । होत॒रिति॑ । चि॒कि॒त्वः॒ । अवृ॑णीमहि । इह॒ । ध्रु॒वम् । अ॒याः॒ । ध्रु॒वम् । उ॒त । अ॒श॒मि॒ष्ट्ह॒ाः । प्र॒ऽजा॒नन् । वि॒द्वान् । उप॑ । या॒हि॒ । सोम॑म् ॥यत् । अद्य । त्वा । प्रयति । यज्ञे । अस्मिन् । होतरिति । चिकित्वः । अवृणीमहि । इह । ध्रुवम् । अयाः । ध्रुवम् । उत । अशमिष्ट्हाः । प्रजानन् । विद्वान् । उप । याहि । सोमम् ॥yat | adya | tvā | pra-yati | yajñe | asmin | hotariti | cikitvaḥ | avṛṇīmahi | iha | dhruvam | ayāḥ | dhruvam | uta | aśamiṣṭha#aḥ | pra-jānan | vidvān | upa | yāhi | somam