Sukta 3.29
अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीळुजम्भम् । दश स्वसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते ॥
अजी॑जनन्न॒मृतं॒ मर्त्या॑सोऽस्रे॒माणं॑ त॒रणिं॑ वी॒ळुज॑म्भम् । दश॒ स्वसा॑रो अ॒ग्रुव॑: समी॒चीः पुमां॑सं जा॒तम॒भि सं र॑भन्ते ॥
ájījanann amṛ́taṃ mártyāso ’sremā́ṇaṃ táraṇiṃ vīḷújambham | dáśa svásāro ágruvaḥ samīcī́ḥ púmāṃsaṃ jātám abhí sáṃ rabhante ||
Mortals have brought to birth the deathless—unyielding, a swift deliverer, breaker of strongholds. Ten sisters, straight-moving and united, clasp around the newborn male power.
अजी॑जनन् । अ॒मृत॑म् । मर्त्या॑सः । अ॒स्रे॒माण॑म् । त॒रणि॑म् । वी॒ळुऽज॑म्भम् । दश॑ । स्वसा॑रः । अ॒ग्रुवः॑ । स॒मी॒चीः । पुमां॑सम् । जा॒तम् । अ॒भि । सम् । र॒भ॒न्ते॒ ॥अजीजनन् । अमृतम् । मर्त्यासः । अस्रेमाणम् । तरणिम् । वीळुजम्भम् । दश । स्वसारः । अग्रुवः । समीचीः । पुमांसम् । जातम् । अभि । सम् । रभन्ते ॥ajījanan | amṛtam | martyāsaḥ | asremāṇam | taraṇim | vīḷu-jambham | daśa | svasāraḥ | agruvaḥ | samīcīḥ | pumāṃsam | jātam | abhi | sam | rabhante