Sukta 3.29
सुनिर्मथा निर्मथितः सुनिधा निहितः कविः । अग्ने स्वध्वरा कृणु देवान्देवयते यज ॥
सु॒नि॒र्मथा॒ निर्म॑थितः सुनि॒धा निहि॑तः क॒विः । अग्ने॑ स्वध्व॒रा कृ॑णु दे॒वान्दे॑वय॒ते य॑ज ॥
sunirmáthā nírmathitaḥ sunidhā́ níhitaḥ kavíḥ | ágne svadhvarā́ kṛṇu devā́n devayaté yaja ||
Well churned-out, well brought forth; well placed, the seer-flame is set within. O Agni, make the paths of the work beautiful and true; sacrifice to the gods for the one who seeks the divine.
सु॒निः॒ऽमथा॑ । निःऽम॑थितः । सु॒ऽनि॒धा । निऽहि॑तः । क॒विः । अग्ने॑ । सु॒ऽअ॒ध्व॒रा । कृ॒णु॒ । दे॒वान् । दे॒व॒ऽय॒ते । य॒ज॒ ॥सुनिःमथा । निःमथितः । सुनिधा । निहितः । कविः । अग्ने । सुअध्वरा । कृणु । देवान् । देवयते । यज ॥suniḥ-mathā | niḥ-mathitaḥ | su-nidhā | ni-hitaḥ | kaviḥ | agne | su-adhvarā | kṛṇu | devān | deva-yate | yaja