Sukta 3.29
तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद्विजायते । मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि ॥
तनू॒नपा॑दुच्यते॒ गर्भ॑ आसु॒रो नरा॒शंसो॑ भवति॒ यद्वि॒जाय॑ते । मा॒त॒रिश्वा॒ यदमि॑मीत मा॒तरि॒ वात॑स्य॒ सर्गो॑ अभव॒त्सरी॑मणि ॥
tanūnápād ucyate gárbha āsuró narāśáṃso bhavati yád vijā́yate | mātáriśvā yád amímīta mātári vā́tasya sárgo abhavat sarī́maṇi ||
He is called Tanūnapāt, the embryo of the luminous power; he becomes Narāśaṃsa when he is born forth. And when Mātariśvan measured him in the Mother, there came to be the outflowing release of the Wind along the flowing course.
तनू॒ऽनपा॑त् । उ॒च्य॒ते॒ । गर्भः॑ । आ॒सु॒रः । नरा॒शंसः॑ । भ॒व॒ति॒ । यत् । वि॒ऽजाय॑ते । मा॒त॒रिश्वा॑ । यत् । अमि॑मीत । मा॒तरि॑ । वात॑स्य । सर्गः॑ । अ॒भ॒व॒त् । सरी॑मणि ॥तनूनपात् । उच्यते । गर्भः । आसुरः । नराशंसः । भवति । यत् । विजायते । मातरिश्वा । यत् । अमिमीत । मातरि । वातस्य । सर्गः । अभवत् । सरीमणि ॥tanū-napāt | ucyate | garbhaḥ | āsuraḥ | narāśaṃsaḥ | bhavati | yat | vi-jāyate | mātariśvā | yat | amimīta | mātari | vātasya | sargaḥ | abhavat | sarīmaṇi