Sukta 3.27
धिया चक्रे वरेण्यो भूतानां गर्भमा दधे । दक्षस्य पितरं तना ॥
धि॒या च॑क्रे॒ वरे॑ण्यो भू॒तानां॒ गर्भ॒मा द॑धे । दक्ष॑स्य पि॒तरं॒ तना॑ ॥
dhiyā́ cakre váreṇyo bhūtā́nāṃ gárbham ā́ dadhe | dákṣasya pitáraṃ tánā ||
By the vision-thought the Adorable has fashioned, and he has set the womb of beings; he has established, in his own body, the Father of the discerning power (Dakṣa).
धि॒या । च॒क्रे॒ । वरे॑ण्यः । भू॒ताना॑म् । गर्भ॑म् । आ । द॒धे॒ । दक्ष॑स्य । पि॒तर॑म् । तना॑ ॥धिया । चक्रे । वरेण्यः । भूतानाम् । गर्भम् । आ । दधे । दक्षस्य । पितरम् । तना ॥dhiyā | cakre | vareṇyaḥ | bhūtānām | garbham | ā | dadhe | dakṣasya | pitaram | tanā