Sukta 3.27
नि त्वा दधे वरेण्यं दक्षस्येळा सहस्कृत । अग्ने सुदीतिमुशिजम् ॥
नि त्वा॑ दधे॒ वरे॑ण्यं॒ दक्ष॑स्ये॒ळा स॑हस्कृत । अग्ने॑ सुदी॒तिमु॒शिज॑म् ॥
ní tvā dadhe váreṇyaṃ dákṣasyeḷā́ sahaskṛta | ágne sudītím uśíjam ||
I set thee down, O Agni, the Adorable—an inspiration of Dakṣa, fashioned by force; a clear-bright flame, the eager seeker who labours for the offering.
नि । त्वा॒ । द॒धे॒ । वरे॑ण्यम् । दक्ष॑स्य । इ॒ळा । स॒हः॒ऽकृ॒त॒ । अग्ने॑ । सु॒ऽदी॒तिम् । उ॒शिज॑म् ॥नि । त्वा । दधे । वरेण्यम् । दक्षस्य । इळा । सहःकृत । अग्ने । सुदीतिम् । उशिजम् ॥ni | tvā | dadhe | vareṇyam | dakṣasya | iḷā | sahaḥ-kṛta | agne | su-dītim | uśijam