Sukta 3.27
पृथुपाजा अमर्त्यो घृतनिर्णिक्स्वाहुतः । अग्निर्यज्ञस्य हव्यवाट् ॥
पृ॒थु॒पाजा॒ अम॑र्त्यो घृ॒तनि॑र्णि॒क्स्वा॑हुतः । अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् ॥
pṛthupā́jā amártyo ghṛtanírṇik svā́hutaḥ | agnír yajñásya havyavā́ṭ ||
Wide in his force, immortal, clothed in clarified brightness, rightly offered—Agni is the carrier of the offering of the sacrifice.
पृ॒थु॒ऽपाजाः॑ । अम॑र्त्यः । घृ॒तऽनि॑र्निक् । सुऽआ॑हुतः । अ॒ग्निः । य॒ज्ञस्य॑ । ह॒व्य॒ऽवाट् ॥पृथुपाजाः । अमर्त्यः । घृतनिर्निक् । सुआहुतः । अग्निः । यज्ञस्य । हव्यवाट् ॥pṛthu-pājāḥ | amartyaḥ | ghṛta-nirnik | su-āhutaḥ | agniḥ | yajñasya | havya-vāṭ